Srimad Valmiki Ramayanam

Balakanda Sarga 72

The Four marriages !!

||om tat sat ||

बालकांड
द्विसप्ततितमस्सर्गः

तमुक्तवंतं वैदेहं विश्वामित्रो महामुनिः ।
उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥

स॥उक्तवंतं वैदेहं वसिष्ठसहितं नृपं तं वीरं वचनं महामुनिः विश्वामित्रः उवाच ॥

Thus told by valiant king of Videha, the venerable sage Viswamitra along with sage Vasishta spoke as follows.

अचिंत्यान्यप्रमेयानि कुलानि नरपुंगव ।
इक्ष्वाकूणां विदेहानां नैषां तुल्योs स्ति कश्चन ॥
सदृशो धर्मसंबंधः सदृशो रूपसंपदा ।
रामलक्ष्मणयो राजन् सीताचोर्मिळया सह ॥
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ।
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥

स॥ हे नरपुंगव इक्ष्वाकूणां विदेहानां कुलानि अचिन्त्यानि अप्रमेयानि । एषां कश्चन न तुल्यः अस्ति ॥राजन्! रामलक्ष्मणयोः सीता च उर्मिळा सह संबंधः धर्म सदृशः रूपसंपदा सदृशः ॥ हे नरश्रेष्ठ ! मम वचनं वक्तव्यं श्रूयतां । एष राजा भ्राता कुशध्वजः यवीयान् धर्मज्ञः ॥

"Oh King the lineages of Ikshvakus and the kings of Videha are eminent beyond measure and cannot be described. There is no one who can equal them. The match of Sita and Urmila with Rama and Lakshmana is perfect by cannons of Dharma and in looks . Oh Best of men please listen to what I have to say. Your brother Kusadhvaja is knower of Dharma."

अस्य धर्मात्मनो राजन् रूपेणा प्रतिमं भुवि ।
सुता द्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥
भरतस्य कुमारस्य शतृघ्नस्य च धीमतः ।
वरयाम स्सुते राजन् तयोरर्थे महात्मनोः ॥

स॥ हे नरश्रेष्ठ ! राजन् धर्मात्मनः अस्य सुता द्वयं रूपेण भुवि अप्रतिमं धीमतः भरतस्य शतृघ्नस्य कुमारस्य पत्न्यर्थं वरयामहे ॥ हे राजन् तयोः सुते महात्मनयोः अर्थे वरयामः ॥

" Oh King ! I pray that his two daughters who are of unrivalled beauty on this earth be given in marriage to the two ingenious sons Bharata and Satrughna. O King ! I am praying that your daughters be given to the great ones".

पुत्त्रा दशरथस्येमे रूपयौवनशालिनः ।
लोकपालोपमास्सर्वे देवतुल्य पराक्रमः ॥
उभयोरपि राजेंद्र संबंधेनानुबध्यताम् ।
इक्ष्वाकोकुलमव्यग्रं भवतः पुण्यकर्मणः ॥

स॥ दशरथस्य इमे पुत्त्राः रूपयौव्वनशालिनः । सर्वे लोकपाल उपमा:। देवतुल्य पराक्रमाः ॥हे राजेंद्र ! संबंधेन इक्ष्वाकुकुलं भवतः उभयोः अपि पुण्यकर्मणः अनुभध्यतां ॥

These sons of Dasaratha are full with riches of form and youth. They equal the rulers of the world and match Devas in valor. Oh King ! With this alliance the Ikshwaku line as well as your who have done may auspicious deeds will prosper.

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तथा ।
जनकः प्रांजलि र्वाक्यं उवाच मुनिपुंगवौ ॥

स॥ वसिष्ठस्य मते विश्वामित्र वचः श्रुत्वा जनकः मुनिपुंगवौ प्रांजलिः वाक्यं उवाच ॥

Hearing those words of Viswamitra who also had the agreement of Vasishta, Janaka bowed to the two venerable sages and spoke as follows.

कुलं धन्यमिदं मन्ये येषां नो मुनिपुंगवौ ।
सदृशं कुलसंभंधं यदाज्ञापयथः स्वयम् ॥
एवं भवतु भद्रं वः कुशध्वजसुते इमे ।
पत्न्यौ भजेतां सहितौ शतृघ्नभरतावुभौ ॥
एकाह्ना राजपुत्रीणां चतसॄणां महामुने ।
पाणीन् गृह्णंतु चत्वारो राजपुत्त्रा महाबलाः ॥
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः।
वैवाहिकं प्रशंसंति भगो यत्र प्रजापतिः ॥

स॥ हे मुनिपुंगवौ ! यदा स्वयं आज्ञापयथः येषां कुलसंबंधं सदृशं मन्ये । इदं कुलं धन्यं ॥भद्रं वः ॥कुशध्वज सुते इमे शतृघ्नभरता वुभौ पत्न्यौ सहितौ भजेतां । एवं भवतु ॥ राजपुत्रीणां चतसॄणां चत्वारो राजपुत्त्राः एकाह्न पाणीन् गृह्णंतु ॥ब्रह्मन् ! मनीषिणः उत्तर फल्गुणीभ्यां यत्र प्रजापतिः भगः (अस्ति तत् दिने ) वैवाहिकं प्रशंसंति ।

"Oh Best of Sages ! As this alliance is prescribed by you both I take it as the best . Our line is blessed. May you be blessed too. The two daughters of Kusadhvaja will be the wives of Bharata and Satrughna. The marriage ceremony of the four princesses with the four princes will happen on the same day. Oh Brahman ! When the Bhaga Prajapati is in Uttara Phalguni people consider that time as auspicious for marriage".

एवमुक्त्वा वचसौम्यं प्रत्युत्थाय कृतांजलिः ।
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥
परो धर्मः कृतो मह्यं शिष्यो sस्मि भवतोः सदा ।
इमान्यासनमुख्यानि आसातां मुनिपुंगवौ ॥
यथा दशरथस्येयं तथायोध्यापुरीमम ।
प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ ॥

स॥ सौम्यं वचः एवं उक्त्वा कृतांजलिः उभौ मुनिवरौ प्रति उद्धाय जनकः वाक्यम अब्रवीत् ॥हे मुनिपुंगवौ ! मह्यं परोधर्मः कृतः । सदा भवतोः शिष्यो अस्मि । इमां मुख्यानि आसनानि आसतां ॥ यथा दशरथस्य अयोध्यापुरी तथा इयं। मम प्रभुत्वे संदेहं न अस्ति । यथार्हं कर्तुमर्हथ ॥

King having said these words in the most pleasing manner to the two sages, spoke again with folded hands as follows. "Oh Best of sages ! You have done me a favor. I will forever be your follower. Please take these important seats. You may treat the city of Mithila like Ayodhya. Have no doubt , Our government will implement what ever you say".

तथा ब्रुवति वैदेहे जनके रघुनंदनः ।
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥

स॥ तथा वैदेहे ब्रुवति रघुनंदनः राजा दशरथः हृष्ठः महीपतिं जनके प्रत्युवाच॥

When the king of Videha spoke thus the delighted king Dasaratha, the scion of Raghu replied to King Janaka as follows.

युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
ऋषयो राजसंघाश्च भवद्ब्यामभिपूजिताः ॥
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयं ।
श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥

स॥ भ्रातरौ मिथिलेश्वरौ युवां असंख्येय गुणौ ( अस्ति) । ऋषयोः राजसंघाश्च भवद्भां अभिपूजितः ॥स्वस्ति प्राप्नुहि ! स्वमालयं गमिष्यामि । श्राद्धकर्माणि सर्वाणि विधस्यां । भद्रं ते । इति अब्रवीत् च ॥

"Oh Rulers of Mithila! You innumerable qualities. The legions of Rishis and the Kings have been worshipped by you. May all good happen to you. I will go to my palace. I will perform all necessary rituals. May you be blessed."

तमापृष्ट्वा नरपतिं राजा दशरथस्तदा ।
मुनींद्रौ तौ पुरस्कृत्य जगामाशु महयशाः ॥

स॥ तदा राजा दशरथः तं नरपतिं अपृष्ट्वा महायशाः तौ मुनींद्रौ पुरस्कृत्य जगामाशु ॥

Then the king Dasaratha left following the two sages with the permission of the King.

स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
एकैकशो ददौ राजा पुत्त्रानुद्दिश्य धर्मतः ॥
सुवर्ण शृंगा स्संपन्नाः सवत्साः कांस्यदोहनाः ।
गवां शतसहसाणि चत्वारि पुरुषर्षभ ॥
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनंदनः ।
ददौ गोदानमुद्दिश्य पुत्त्राणां पुत्त्रवत्सलः ॥

स॥ स निलयं गत्वा विधानतः श्राद्धं कृत्वा प्रभाते काल्यं उत्थाय उत्तमम् गोदानं चक्रे॥एकैकशो पुत्त्रान् उद्दिश्य धर्मतः शतशहस्राणि गवां ब्राह्मण्येभ्यो ददौ ॥ सुवर्णशृंग संपन्नाः सवत्साः कांस्य दोहनाः चत्वारि शतसहस्राणि गवां ( ब्राह्मण्येभ्यो ददौ)॥पुत्रवत्सलः रघुनंदनः पुत्राणाम् गोदानमुद्दिस्य अन्यच्च सुबहु वित्तं द्विजेभ्यो ददौ ॥

Then having gone to his palace, he performed the rituals as they should be done . Then getting up in the morning gave away the best of cows. For each one of his sons he gave away a lakh of cows to the Brahmins as ordained. He gave away four lakh cows which had calfs and were giving plenty of milk , had horns of gold along with brass vessels. With overflowing affection for his sons he gave away cows and also plenty of money.

स सुतैः कृतगोदानैः वृतस्तु नृपतिस्तदा ।
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥

स॥ स नृपतिः तदा कृत गोदानैः लोकपालैः वृतः वृतस्तु सौम्यः प्रजापतिः इव भाति ॥

The king surrounded by his sons , having given away cows looked like the happy Prajapati surrounded by the rulers of various worlds

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे द्विसप्ततितमस्सर्गः ॥
समाप्तं ॥

|| Thus end the seventy second Sarga in Balakanda||

|| ओम् तत् सत् ||

||om tat sat ||